|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.62. अध्यायः 062
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणैस्त्याज्यधर्मकथनम्॥ 1॥ तथा क्षत्रियादिधर्मकथनपूर्वकं राजधर्मप्रशंसनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-62-0x(5481)(67253)
ज्याकर्षणं शत्रुनिवर्हणं च
कृपिर्वणिज्या पशुपालनं च।
शुश्रूषणं चापि तथाऽर्थहेतो
रकार्यमेतत्परमं द्विजस्य॥ 12-62-1(67254)
सेव्यं तु ब्रह्म षट्कर्म गृहस्थेन मनीषिणा।
कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते॥ 12-62-2(67255)
राजप्रेष्यं कृषिधनं जीवनं च वणिज्यया।
कौटिल्यं कौलटेयं च ब्राह्मणस्य विगर्हितम्॥ 12-62-3(67256)
शूद्रो राजन्भवति ब्रह्मबन्धु
र्दुश्चारित्रो यश्च धर्मादपेतः।
वृपलीपतिः पिशुनो नर्तनश्च।
ग्रामप्रेष्यो यश्च भवेद्विकर्मा॥ 12-62-4(67257)
`एवंविधो ब्राह्मणः कौरवेन्द्र
वृत्तापेतो यो भवेन्मन्दचेताः। '
जपन्वेदानजपंश्चापि राजन्
समः शूद्रैर्दासवच्चापि भोज्यः।
एते सर्वे शूद्रसमा भवन्ति
राजन्नेतान्वर्जयेद्देवकृत्ये॥ 12-62-5(67258)
निर्मर्यादे वाक्छठे क्रूरवृत्तौ।
हिंसाकामे त्यक्तवृत्तस्वधर्मो।
हव्यं कव्यं यानि चान्यानि राजन्
देयान्यदेयानि भवन्ति तस्मिन्॥ 12-62-6(67259)
तस्माद्धर्मो विहितो ब्राह्मणस्य
दमः शौचं चार्जवं चापि राजन्।
तथा विप्रस्याश्रमाः सर्व एव
पुरा राजन्ब्रह्मणा संनिसृष्टाः॥ 12-62-7(67260)
यः स्याद्दान्तः सोमपाश्चार्यशीलः
सानुक्रोशः सर्वसहो निराशीः।
ऋजुर्मृदुरनृशंसः क्षमावान्
स वै विप्रो नेतरः पापकर्मा॥ 12-62-8(67261)
विप्रं वैश्यं राजपुत्रं च राजन्
लोकाः सर्वे संश्रिता धर्मकामाः।
तस्माद्वर्णाञ्जातिधर्मेषु सक्ता
ञ्जेतुं विष्णुर्नेच्छति पाण्डुपुत्र॥ 12-62-9(67262)
लोकश्चायं सर्वलोकस्य न स्या
च्चातुर्वर्ण्यं वेदवादाश्च न स्युः।
सर्वाश्चेज्याः सर्वलोकक्रियाश्च
सद्यः सर्वे चाश्रमाश्चैव न स्युः॥ 12-62-10(67263)
यच्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम्।
कर्तुमाश्रमदृष्टांश्च धर्मास्ताञ्शृणु पाण्डव॥ 12-62-11(67264)
शुश्रूषोः कृतकार्यस्य कृतसंतानकर्मणः।
अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते॥ 12-62-12(67265)
अल्पान्तरगतस्यापि देशधर्मगतस्य वा।
आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्॥ 12-62-13(67266)
भैक्षचर्यां नचैवाहुस्तस्य तद्धर्मवादिनः।
तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि॥ 12-62-14(67267)
कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः।
वैश्यो गच्छेदनुज्ञातो नृपेणाश्रमसंश्रयम्॥ 12-62-15(67268)
वेदानधीत्य धर्मेण राजशास्त्राणि चानघ।
संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च॥ 12-62-16(67269)
पालयित्वा प्रजाः सर्वा धर्मेण वदतांवर।
राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च॥ 12-62-17(67270)
आनयित्वा यथान्यायं विप्रेभ्यो दत्तदक्षिणः।
संग्रामे विजयं प्राप्य तथाऽल्पं यदि वा बहु॥ 12-62-18(67271)
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव।
अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ॥ 12-62-19(67272)
अर्चयित्वा पितॄञ्श्राद्धैः पितृयज्ञैर्यथाविधि।
देवान्यज्ञैर्ऋषीन्वेदैरर्चयित्वा तु यत्नतः॥ 12-62-20(67273)
अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम्।
सोनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात्॥ 12-62-21(67274)
राजर्षित्वेन राजेन्द्र भैक्ष्यचर्याद्यसेवया।
अपेतगृहधर्मापि चरेज्जीवितकाम्यया॥ 12-62-22(67275)
न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण।
चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम्॥ 12-62-23(67276)
बाह्वायत्तं क्षत्रियैर्मानवानां
लोकश्रेष्ठं धर्ममासेवमानैः।
सर्वे धर्माः सोपधर्मास्त्रयाणां
राज्ञो धर्मं नीतिशास्त्रे शृणोमि॥ 12-62-24(67277)
यथा राजन्हस्तिपदे पदानि
संलीयन्ते सर्वसत्वोद्भवानि।
एवं धर्मान्राजधर्मेषु सर्वान्
सर्वावस्थान्संप्रलीनान्निबोध॥ 12-62-25(67278)
अल्पाश्रयानल्पफलान्वदन्ति
धर्मानन्यान्धर्मविदो मनुष्याः।
महाश्रयं बहुकल्याणरूपं
क्षात्रं धर्मं नेतरं प्राहुरार्याः॥ 12-62-26(67279)
सर्वे धर्मा राजधर्मप्रधानाः
सर्वे वर्णाः पाल्यमाना भवन्ति।
सर्वस्त्यागो राजधर्मेषु राजं
स्त्यागं धर्मं चाहुरग्र्यं पुराणम्॥ 12-62-27(67280)
मज्जेत्रयी दण्डनीतौ हतायां
सर्वे धर्माः प्रक्षयेयुर्विरुद्धाः।
सर्वे धर्माश्चाश्रमाणां हताः स्युः
क्षात्रे नष्टे राजधर्मे पुराणे॥ 12-62-28(67281)
सर्वे भोगा राजधर्मेषु दृष्टाः
सर्वा दीक्षा राजधर्मेषु चोक्ताः।
सर्वा विद्या राजधर्मेषु युक्ताः
सर्वे लोका राजधर्मे प्रविष्टाः॥ 12-62-29(67282)
`सर्वे धर्मा राजधर्मेषु दृष्टाः
सर्वे भोगा राजधर्मेषु राजन्।'
सर्वे योगा राजधर्मेषु चोक्ताः
सर्वे धर्मा राजधर्मे प्रविष्टाः।
तस्माद्धर्मो राजधर्माद्विशिष्टो
नान्यो लोके विद्यतेऽजातशत्रो॥ 12-62-30(67283)
सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम।
भवन्ति जीवलोकाश्च क्षत्रधर्मे प्रतिष्ठिताः॥ 12-62-31(67284)
यथा जीवाः प्राकृतैर्वध्यमाना
धर्मश्रुतीनामुपपीडनाय।
एवं धर्मा राजधर्मैर्वियुक्ताः
संचिन्वन्तो नाद्रियन्ते स्वधर्मम्॥ ॥ 12-62-32(67285)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विषष्टितमोऽध्यायः॥ 62॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-62-3 कौटिल्यमनार्जवम्। कौलटेयं कुलटाप्रधानं जारकर्म। कुसीदं च विवर्जयेत् इति झ. पाठः। तत्र कुसीदं वृद्धिजीविकामित्यर्थः॥ 12-62-5 राजप्रेष्यादिर्वेदान् जपन्नजपन्वा शूद्रइव पङ्क्तेर्वहिर्भोजनीय एवेति भावः॥ 12-62-11 यो राजा त्रयाणां ब्राह्मणवैश्यशूद्राणां स्वराज्ये आश्रमधर्मसेवनं यथोक्तं इच्छेत् तेनावश्यज्ञातव्यान्धर्माञ्शृणु॥ 12-62-12 शुश्रूषोर्वेदान्तेष्वनधिकारात्पुराणद्वारा आत्मानं श्रोतुमिच्छोः। कृतकार्यस्य यावच्छरीरसामर्थ्यं सेवितत्रैवर्ण्यस्य॥ 12-62-13 अल्पान्तरगतस्य आचारनिष्ठया त्रैवर्णिकसमस्य आश्रमाः सर्वे विहिताः। शूद्रोऽपि नैष्ठिकं ब्रह्मचर्यं वानप्रस्थं वा सकलविक्षेपककर्मत्यागरूपं संन्यासं वाऽनुतिष्ठेदेव। निराशिषं शान्तिदान्त्यादिकल्याणगुणरहितम्॥ 12-62-22 अपेतगृहधर्मोऽपीति ख. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|